श्रीगणपत्यथर्वशीर्ष।
Ganpati Atharvashirsha in Sanskrit (Samskritam) helps removing obstacles from one's life. It helps one gain knowledge, skills, make right decisions, find new ideas, get rid of money related issues and helps in many different areas of life.
STOTRAS AND MANTRAS
Hexa Astro
6/7/20231 min read
शान्तिपाठ
ॐ भद्रङ्कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ शान्तिः! शान्तिः! शान्तिः!!!
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यङ्करवावहै। तेजस्वि नावधीतमस्तु। मा विद्विषावहै।
ॐ शान्तिः! शान्तिः! शान्तिः!!!
ॐ भद्रङ्कर्णेभिरिति शान्तिः॥
ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षन्तत्त्वमसि। त्वमेव केवलङ्कर्ताऽसि। त्वमेव केवलन्धर्ताऽसि।
त्वमेव केवलम्हर्ताऽसि। त्वमेव सर्वङ्खल्विदं ब्रह्मासि। त्वं साक्षादात्माऽसि नित्यम्॥१॥
ऋतं वच्मि । सत्यं वच्मि॥२॥
अव त्वम् माम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचानम्। अव शिष्यम्। अव पश्चात्तात्। अव पुरस्तात्। अवोत्तरात्तात्। अव दक्षिणात्तात्। अव चोर्ध्वात्तात्। अवाधरात्तात्। सर्वतो माम् पाहि पाहि समन्तात्॥३॥
त्वं वाङ्मयस्त्वञ्चिन्मयः। त्वम् आनन्दमयस्त्वम्ब्रह्ममयः। त्वं सच्चिदानन्दाद्वितीयोऽसि। त्वम् प्रत्यक्षम् ब्रह्मासि। त्वम् ज्ञानमयो विज्ञानमयोऽसि॥४॥
सर्वञ्जगदिदन् त्वत्तो जायते। सर्वञ्जगदिदन् त्वत्तस्तिष्ठति। सर्वञ्जगदिदन् त्वयि लयमेष्यति। सर्वञ्जगदिदन् त्वयि प्रत्येति। त्वम् भूमिरापोऽनलोऽनिलो नभः। त्वञ्चत्वारि वाक्पदानि॥५॥
त्वङ्गुणत्रयातीतः। त्वङ्कालत्रयातीतः। त्वन्देहत्रयातीतः। त्वं मूलाधारस्थितोऽसि नित्यम्। त्वं शक्तित्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मा त्वं विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वञ्चन्द्रमास्त्वम्ब्रह्मभूर्भुवः स्वरोम्॥६॥
गणादिं पूर्वमुच्चार्य वर्णादिन्तदनन्तरम्। अनुस्वारः परतरः। अर्धेन्दुलसितम्। तारेण रुद्धम्। एतत्तव मनुस्वरूपम्। गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादः सन्धानम्। संहिता सन्धिः। सैषा गणेशविद्या। गणक ऋषिः। निचृद्गायत्री छन्दः। गणपतिर्देवता। ॐ गँ गणपतये नमः॥७॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्ती प्रचोदयात्॥८॥
एकदन्तञ्चतुर्हस्तम्, पाशमङ्कुशधारिणम्। रदञ्च वरदं हस्तैर्बिभ्राणं, मूषकध्वजम्॥
रक्तं लम्बोदरं, शूर्पकर्णकं रक्तवाससम्। रक्तगन्धानुलिप्ताङ्गं, रक्तपुष्पैः सुपूजितम्॥
भक्तानुकम्पिनन्देवञ्जगत्कारणमच्युतम्। आविर्भूतञ्च सृष्ट्यादौ, प्रकृतेः पुरुषात्परम्॥
एवन्ध्यायति यो नित्यं स योगी योगिनां वरः॥९॥
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः॥१०॥
एतदथर्वशीर्षं योऽधीते। स ब्रह्मभूयाय कल्पते। स सर्वविघ्नैर्न बाध्यते। स सर्वतः सुखमेधते स पञ्चमहापापात्प्रमुच्यते। सायमधीयानो दिवसकृतम् पापन्नाशयति। प्रातरधीयानो रात्रिकृतम् पापन्नाशयति। सायं प्रातः प्रयुञ्जानो अपापो भवति।
सर्वत्राधीयानोऽपविघ्नो भवति धर्मार्थकाममोक्षञ्च विन्दति। इदमथर्वशीर्षमशिष्याय न देयम्। यो यदि मोहाद्दास्यति स पापीयान् भवति। सहस्रावर्तनाद्यंयङ्काममधीते तन्तमनेन साधयेत्॥११॥
अनेन गणपतिमभिषिञ्चति स वाग्मी भवति। चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति। इत्यथर्वणवाक्यम्। ब्रह्माद्यावरणं विद्यात्। न बिभेति कदाचनेति॥१२॥
यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति। यो लाजैर्यजति, स यशोवान् भवति। स मेधावान् भवति। यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति। यः साज्यसमिद्भिर्यजति स सर्वं लभते, स सर्वं लभते॥१३॥
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति। महाविघ्नात् प्रमुच्यते। महापापात् प्रमुच्यते । महादोषात् प्रमुच्यते । स सर्वविद् भवति, स सर्वविद् भवति । य एवं वेद॥१४॥ इत्युपनिषत्।।